Shloka
नासीत्पूर्वं न पश्चादतनुदिनकराच्छादको वारिवाहो
दृश्यः किं त्वन्तरासौ स्थगयति स दृशं पश्यतो नार्कबिम्बम् ।
नो चेदेवं विनार्कं जलधरपटलं भासते तर्हि कस्मा -
त्तद्वद्विश्वं पिधत्ते दृशमथ न परं भासकं चालकं स्वम् ॥ ३२ ॥
nāsītpūrvaṃ na paścādatanudinakarācchādako vārivāho
dṛśyaḥ kiṃ tvantarāsau sthagayati sa dṛśaṃ paśyato nārkabimbam ;
no cedevaṃ vinārkaṃ jaladharapaṭalaṃ bhāsate tarhi kasmā -
ttadvadviśvaṃ pidhatte dṛśamatha na paraṃ bhāsakaṃ cālakaṃ svam . 32 .