Shloka
विवस्वत्प्रभातं यथारूपमक्षंप्रगृह्णाति नाभातमेवं विवस्वान् । यदाभात आभासयत्यक्षमेकःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८ ॥
vivasvatprabhātaṃ yathārūpamakṣaṃpragṛhṇāti nābhātamevaṃ vivasvān ; yadābhāta ābhāsayatyakṣamekaḥsa nityopalabdhisvarūpo’hamātmā . 8 .
हस्तामलकीयभाष्यम्
नन्वस्तु तर्हि रविरेव बुद्धीनां प्रेरकः अधिष्ठाता, किमात्माभ्युपगमेन ? तथा च श्रुतिः — ‘धियो यो नः प्रचोदयात्’ इति, अत आह — ~~~ विवस्वता सूर्येण प्रभातं प्रकाशितं रूपं यथा येन प्रकारेण अक्षं चक्षुः प्रगृह्णाति प्रकर्षेण जानाति, नाभातं न अप्रकाशितम् , अन्धकारे घटाद्यनुपलम्भात् एवं विवस्वानपि एकः तथा तेनैव प्रकारेण यदाभातः येनाधितिष्ठितः सन् आभासयति अधितिष्ठति अक्षं यथा विवस्वान् अधिष्ठाता, तथा विवस्वतोऽप्यधिष्ठाता यः, सोऽहमात्मेति सम्बन्धः । स चाहम्बुद्धीनामधिष्ठाता ; श्रुत्या तु चक्षुरधिष्ठातृत्वमभिप्रेत्य विवस्वतो बुद्धिप्रेरकत्वमभिहितम् । यस्माद्विवस्वदधिष्ठितं चक्षुः बुद्धिवृद्धिमुत्पादयति ; अधिष्ठातुरात्मनो वा स्वरूपमभिप्रेत्योक्तः ; तथा च ‘सूर्य आत्मा जगतस्तस्थुषश्च’ इति । नन्वपि तर्हि प्रकाशान्तरेणैव अधिष्ठातव्यम् , न, तस्य स्वप्रकाशत्वात् । ‘नान्यदतोऽस्ति द्रष्टा’ इति च श्रुत्या तदितरप्रतिषेधाच्च ॥