Shloka

यथा सूर्य एकोऽप्स्वनेकश्चलासु-
स्थिरास्वप्यनन्वग्विभाव्यस्वरूपः ।
चलासु प्रभिन्नासु धीष्वेवमेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥९॥

yathā sūrya eko’psvanekaścalāsu-
sthirāsvapyananvagvibhāvyasvarūpaḥ ;
calāsu prabhinnāsu dhīṣvevamekaḥ
sa nityopalabdhisvarūpo’hamātmā .9.

हस्तामलकीयभाष्यम्

किं च —

यथा येन प्रकारेण आदित्यः एकः अप्सु वारिषु चलासु स्थिरासु च अनेकोऽपि नानापि एकः सन् प्रतिभासते अनन्वग्विभाव्यस्वरूपः अनु पश्चात् अञ्चति गच्छतीति अन्वक् न अन्वक् अनन्वक् अननुगत इति यावत् । यद्वा अनन्वक्त्वेन विभाव्यं स्वरूपं यस्य स तथोक्तः । एवं बहुव्रीहिसमासं कृत्वा पश्चात् नञ्समासः । ततश्चायमर्थो भवति — न वारिषु रविरनुगतो भवति । किं तर्हि तथैव नभसि देदीप्यमानो भ्रान्त्या वारिषु दृश्यत इत्यर्थः । एवं एक आत्मा चलासु प्रभिन्नासु नानाभूतासु धीषु बुद्धिषु अनेकः सन् अनन्वग्विभाव्यस्वरूपो न बुद्धीरनुगतो भवति । किं तर्हि, पृथगेव देदीप्यते यः सोऽहमात्मेत्यर्थः ॥

English Translation of Hastamalakiyam

The one sun appears as many reflections in different containers of water, moving or still, but the sun remains unaffected by the nature of the water in which it is reflected. Similarly, the one Self, though reflected in different intellects that are ever-changing, remains changeless and untainted by the character of the intellects.

English translation and Notes of Hastamalakiya Bhashya

The Self (or Brahman) reflected in the intellect is the Jiva, or individual soul. The intellects vary in nature, but Brahman is ever the same and is not in the least affected by the characteristics of the intellects. The Jiva, through ignorance, identifies himself with the body-mind complex and attributes to himself the joys and sorrows of the body-mind complex. When the Jiva gives up his identification with the body-mind complex he realizes that he is Brahman.

Preferences

Font Size


View
(Where Available)


Sanskrit Content