Shloka
य एको विभाति स्वतः शुद्धचेताःप्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥
ya eko vibhāti svataḥ śuddhacetāḥprakāśasvarūpo’pi nāneva dhīṣu ; śarāvodakastho yathā bhānurekaḥsa nityopalabdhisvarūpo’hamātmā . 6 .
हस्तामलकीयभाष्यम्
ननु यद्यात्मा मनश्चक्षुरादेरगम्यः कथं तर्हि अस्य सिद्धिः ? घटपटादयो हि मनश्चक्षुराद्यधीनसिद्धयो दृष्टाः । ततः आत्मनोऽपि तदधीनसिद्धिर्युक्ता । यदा तस्य तदधीना सिद्धिर्न भवति, तदा अस्य सिद्धिरेव न स्यात् शशविषाणवत् इत्यत आह — ~~~ य इति स्वतःसिद्धतामाह । एकः अद्वितीयः विभाति विशेषेण प्रकाशते स्वतः स्वयमेव न परतः शुद्धं निर्मलं चेतो मनो यस्य सः स्वतःशुद्धचेताः ; शुद्धचित्तस्य हि आत्मा स्वयमेव स्फुरतीत्यर्थः । अत एव सत्त्वशुद्ध्यर्थं वेदेऽपि वेदानुवचनादयो विहिताः — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’ इति । घटपटादयश्च जडत्वात् प्रकाशान्तरापेक्षत्वाच्च न प्रकाशन्त इति युक्तम् । आत्मा तु प्रकाशस्वरूपत्वात् प्रकाशान्तरानपेक्षः प्रकाशते सवितृवत् — यथा सविता स्वप्रकाशः प्रकाशान्तरं नापेक्षते अथ च प्रकाशते, तद्वदात्मापीति भावः । एवमुत्पन्नात्मज्ञानो अद्वयो जीवन्मुक्तः स्वयं प्रकाशरूपोऽपि परमार्थतो नानाविधासु धीषु उपाधिषु नानेव भाति यः, सोऽहमात्मेति सम्बन्धः । शरावोदकेषु उपाधिषु अवस्थितो भानुः आदित्यः प्रकाशस्वरूपोऽपि एक एव सन् नानेव भाति, तद्वदात्मापीति भावः । ननु कथं जीवन्मुक्तः ? देहवांस्तावत् जीवन्नित्युच्यते ; तस्य जीवतोऽपि यदि देहाभावो मुक्तिरभिप्रेयते, नासावुपपद्यते, विरोधात् । न हि जीवतो देहाभावः सम्भवति । अथ सत्यपि देहे भोगविच्छेदो मुक्तिरिति, तदपि च चतुरश्रम् । सकलभोगकारणेन्द्रियसम्पत्तौ भोगविच्छेदस्य असम्भावितत्वात् । मिथ्याज्ञाननिबन्धनो हि भोगः ; तस्य च संयग्ज्ञानेन निवृत्तत्वात् भोगविच्छेद इति चेत् ; न, बाधितस्यापि मिथ्याज्ञानस्य द्विचन्द्रादिज्ञानवत् अनुवृत्त्यभ्युपगमात् । अन्यथा देहवानेव न स्यात् अत एव विदुषां जनकादीनां राज्यादिकं श्रूयते । श्रुतिरपि देहवतो भोगविच्छेदं प्रतिषेधति — ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति । तस्मादयुक्ता जीवन्मुक्तिरिति । अत्रोच्यते — जीवतस्तावत् तत्त्वज्ञानमुत्पद्यते न तु मृतस्य ; शमदमादेः श्रवणमननादेश्च ज्ञानहेतोः मृतस्यासम्भवात् । अत एव हि विदुषां याज्ञवल्क्यादीनां संन्यासः श्रूयते । न च मृतस्य संन्यासः श्रूयते सम्भवति वा । तस्मात् जीवतस्तत्त्वज्ञानमुत्पद्यत इति सिद्धम् । आत्मज्ञानादेव मुक्तिरिति सिद्धा जीवन्मुक्तिः ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ ‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुतिभ्यः । ननु ज्ञानस्य मोक्षफलकत्वे श्रुतिषु सहकार्यन्तरं प्रतीयते इति चेत् , न, ज्ञानमात्रस्य श्रवणात् — ‘भिद्यते हृदयग्रन्थिः’ इति ; ‘नान्यः पन्था विद्यतेऽयनाय’ इति सहकार्यन्तरप्रतिषेधाच्च । ननु श्रुतिरेव मरणसहकारिणो ज्ञानान्मोक्षं दर्शयति ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’ इति ; न, पूर्वोत्पन्नस्य ज्ञानस्य चिरप्रवृत्तत्वात् मरणकाले तस्य संनिधापयितुमशक्तेः । तत्कालमेवोत्पन्नात् ज्ञानान्तरान्मुक्तिरिति चेत् , न, ‘यदेव भगवान्वेद तदेव मे ब्रूहि’ इति ‘आचार्यवान्पुरुषो वेद’ इत्यादिश्रुतिपर्यालोचनया प्रथमज्ञानादेव मुक्तेः श्रूयमाणत्वात् । एतेन वचनान्तरमनुगृहीतं भवति — जीवन्नेव हि विद्वान् हर्षमर्षाभ्यां विमुच्यते इति । न च ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति श्रुत्यन्तरविरोधो वाच्यः, श्रुत्यन्तरस्य सामान्यविषयत्वात् , अत्र ‘विद्वान्’ इति विशेषनिर्देशात् । ‘तस्य तावदेव चिरम्’ इति श्रुतिस्त्यक्ता स्यादिति चेत् , न, व्यवस्थया उपपत्तेः । तथा हि — मुक्तिः खलु स्वाभाविकी सर्वेषाम् , न सा ज्ञानेन जन्यते । किं तर्हि ? अविद्यातिमिरतिरोहिताया मुक्तेः तिमिरमात्रं निराक्रियते । तच्च प्रथमज्ञानेनैव निराकृतम् । तथापि अविद्याकार्यस्य देहस्य अविनाशात् पुनःपुनः महान्धकारवदुत्सारितमपि तिरस्करोति । तस्य तिरस्कारप्रतिभासस्य देहविच्छेदाद्विच्छेदो भवति । एवं च सति प्राचीनमेव महान्धकारोत्सारणं ज्ञानमात्रनिबन्धनमवतिष्ठते — यथा सूर्योदयेन महातिमिरोत्सारणे कृतेऽपि छत्रादिकृतस्य तिमिराभासस्य छत्रादिविगमे विगमः । ततश्च प्राचीनमेव महातिमिरोत्सारणं सूर्योदयमात्रनिबन्धनमवतिष्ठत इति । तस्मात् न ज्ञानान्तरान्मुक्तिः । अपि तु पूर्वोत्पन्नज्ञानादेव मुक्तिरिति सिद्धम् । ननु यदि पारमार्थिकम् अद्वैतं मिथ्याज्ञानविजृम्भितश्च प्रपञ्च इति श्रुत्यर्थो अवधारितः, तत्कथं सत्यपि बाधके प्रपञ्चानुवृत्तिः ; न हि सत्येव शुक्तिकाज्ञाने रजतादिप्रपञ्चो अनुर्तते ; उच्यते — ‘नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति’ ‘नेह नानास्ति किञ्चन’ इत्यादिवाक्यसहितात् तत्त्वमस्यादिवाक्यात् प्रपञ्चविलयद्वारेण असन्दिग्धमबाधितं च अद्वैतज्ञानं तावदुत्पद्यते । न च तत् प्रपञ्चप्रत्ययेन बाध्यत इति युक्तम् , तत्प्रविलयेनैव उत्पत्तेः । यत्पुनरुक्तं कथं प्रपञ्चप्रत्ययानुवृत्तिरिति, अत्रोच्यते — द्विविधं हि बाधकं भवति — यथा सत्येव मिथ्याज्ञानहेतुभूते पित्तादौ जाग्रत्येव पीतः शङ्खः इति ज्ञाने निमित्तान्तरात् नायं पीत इति मिथ्याज्ञानकारणापगमे, वा यथा मन्दालोकप्रभवस्य शुक्तिकारजतज्ञानस्य महत्यालोके नेदं रजतमिति ज्ञानम् , तद्वदिहापि पीतः शङ्ख इति ज्ञानबाधकवत् सत्येव मिथ्याज्ञाने हेतुभूते शरीरे प्रपञ्चप्रत्ययस्य बाधकमद्वैतज्ञानमुत्पद्यते । अत एव स्वकारणाद्बाधितमपि प्रपञ्चज्ञानं पीतशङ्खज्ञानवत् पुनः पुनः जायत इति । ननु देहस्यापि प्रपञ्चान्तर्गतत्वात् उच्छित्तिरेव प्रसज्यते इति चेत् ; न, प्रारब्धकर्मवशात् अनुवृत्तेः । कर्मणश्च कुलालचक्रभ्रमणवत्संस्कारादनुवृत्तिरिति सिद्धा जीवन्मुक्तिरिति । कर्मसंस्कारक्षयश्च देहपाते सति सर्वस्यैव प्रपञ्चप्रत्ययस्यापि प्रविलयः । कर्मान्तराणां च ज्ञानेन क्षपितत्वात् देहान्तरानुत्पत्तिरिति परममुक्तिः । एवं च सति ज्ञानमात्रान्मुक्तिरिति प्रतिपादनादेव कर्मणो मुक्तिहेतुत्वमपास्तं वेदितव्यम् । तथा हि — न तावत्केवलात्कर्मणो मुक्तिश्रवणात् । नापि तत एव ज्ञानसहितात् , अश्रुतेरेव । ननु ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ इति विद्याकर्मणोः सहभावः श्रूयते ; सत्यम् , संसारविषयं तच्छ्रवणं न मुक्तिविषयम् इति । ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिचोदनाप्राप्तानां नित्यनैमित्तिककर्मणां ज्ञानस्य च अर्थात्समुच्चय इति चेत् ; न, विनियोजकप्रमाणाभावात् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’ इत्यत्र तृतीयाश्रुतिः विनियोजिका इति चेत् ; न, विविदिषासम्बन्धात् कर्मणां ज्ञानार्थत्वप्रतीतेः मोक्षार्थत्वं नावगम्यते इति । किं च, न हि ज्ञानम् अज्ञाननिवृत्तौ उपकारकमपेक्षते, उत्पन्नादेव तस्मात् अज्ञाननिवृत्तेरवश्यम्भावात् । तथा च श्रुतिः — ‘तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इति । अपि च यदि कर्मफलं मोक्षो भवेत् , तदा अनित्यत्वं प्रसज्यते घटादिवत्स्वर्गादिवच्चेति । अमुमेवार्थं श्रुतिरप्याह — तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इति । ‘अग्निहोत्रादि तु तत्कार्यायैव’ इति सूत्रकारेण परम्परया कर्मणां मुक्तिहेतुत्वमभिहितं प्रयाजादिवत् । अतः ज्ञानार्थत्वेन कर्मणामुपयोगोऽस्त्येव । ज्ञानोत्पत्तेस्तु परं कर्मणामुपयोगाभावेऽपि लोकसङ्ग्रहार्थमनुष्ठानं कर्तव्यमेवेति सर्वं समञ्जसम् ॥