Shloka
मनश्चक्षुरादेर्वियुक्तः स्वयं योमनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूपःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५ ॥
manaścakṣurāderviyuktaḥ svayaṃ yomanaścakṣurādermanaścakṣurādiḥ ; manaścakṣurāderagamyasvarūpaḥsa nityopalabdhisvarūpo’hamātmā . 5 .
हस्तामलकीयभाष्यम्
केचित् बुद्ध्यादीनामात्मत्वं मन्यन्ते ; तान्प्रत्याह — ~~~ मनश्चक्षुरादेः मनआदेः चक्षुरादेश्च वियुक्तः पृथग्भूतः यः सोऽहमात्मेति सम्बन्धः । मनश्चक्षुराद्युपादानेन तदन्तर्गतत्वात् शरीरमपि उपात्तं द्रष्टव्यम् । एतेन शरीरादपि वियुक्त इति लक्ष्यते । तथा च गुरुः — ‘बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानारूपः प्रतिक्षेत्रमात्मा वृत्तिषु भासते’ इति कथं मनश्चक्षुरादिकस्य प्रकाशकस्य उपरि अयमात्मा प्रकाशकः, मनआदेः चक्षुरादेः कथं वियुक्तः इत्यत आह — स्वयमिति । स्वयं य आत्मा मनश्चक्षुरादेः मनश्चक्षुरादिः मनश्चक्षुरादिकस्य प्रकाशकस्य मनश्चक्षुरादिः प्रकाशकः, प्रकाशकत्वगुणयोगात् ; अयमर्थः — यथा बाह्यस्य घटादेः प्रकाशको मनश्चक्षुरादिः ततो व्यतिरिच्यते, तथा, आन्तरस्यापि मनश्चक्षुरादेः प्रकाशकः आत्मा ततो व्यतिरिच्यत इति निश्चीयते । अत एव मनश्चक्षुरादीनाम् अनात्मत्वमिति सिद्धं ज्ञेयादन्यो ज्ञाता भवति । ननु आत्मनोऽपि ज्ञेयत्वात् अनात्मत्वं प्रसज्यते इत्यत आह — मनश्चक्षुरादेरगम्यस्वरूपः प्रकाशस्वभावः । तथा च श्रुतिः — ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति ॥