Shloka

यथा दर्पणाभाव आभासहानौमुखं विद्यते कल्पनाहीनमेकम् । तथा धीवियोगे निराभासको यःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४ ॥

yathā darpaṇābhāva ābhāsahānaumukhaṃ vidyate kalpanāhīnamekam ; tathā dhīviyoge nirābhāsako yaḥsa nityopalabdhisvarūpo’hamātmā . 4 .

हस्तामलकीयभाष्यम्

नन्वेवं सति आत्मनः सुखदुःखादिसम्बन्धाभावात् बन्धो नास्ति ; बन्धाभावाच्च मोक्षाभावः ; बद्धो हि मुच्यते नाबद्ध इति ; तथा चिदाभासस्यापि बन्धमोक्षौ न विद्येते, अवस्तुत्वात् ; तस्य बुद्धेरपि विनाशित्वात् बन्धमोक्षयोरभावः ; ततश्च मोक्षशास्त्रमनर्थकमापन्नम् इत्यत आह — ~~~ यथा दर्पणाभावे सति आभासस्य मुखप्रतिबिम्बस्य हानौ सत्यां मुखं परमार्थसत् कल्पनाहीनं मिथ्याज्ञानरहितम् एकमेव परं नापरं विद्यते, तथा तेनैव प्रकारेण धीवियोगे बुद्धेरभावे निराभासको अप्रतिबिम्बः परमार्थतः सन् एक एव यः, सोऽहमात्मेति योजना । अयमभिप्रायः आत्माज्ञानकृतोऽयं बुद्ध्यादिप्रपञ्चः । तत्र बुद्ध्यादौ प्रतिबिम्बरूपेण आत्मानमध्यस्य तद्गतसुखदुःखादिकम् आत्मन्यध्यस्यति । सोऽयमध्यासो बन्धः । आत्मज्ञानेन अज्ञाननिवृत्त्या बुद्ध्यादिप्रपञ्चनिवृत्तौ अध्यासनिवृत्तिर्मोक्षः । न पुनः पारमार्थिकौ बन्धमोक्षौ अस्य विद्येते इति सर्वं समञ्जसमिति ॥

Preferences

Font Size


View
(Where Available)


Sanskrit Content