Shloka
यमग्न्युष्णवन्नित्यबोधस्वरूपंमनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तन्त आश्रित्य निष्कम्पमेकंस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥
yamagnyuṣṇavannityabodhasvarūpaṃmanaścakṣurādīnyabodhātmakāni ; pravartanta āśritya niṣkampamekaṃsa nityopalabdhisvarūpo’hamātmā . 2 .
हस्तामलकीयभाष्यम्
ननु मनश्चक्षुरादिप्रवृत्तौ किमर्थमधिष्ठाता इष्यते ? स्वयमेव कस्मान्न प्रवर्तन्ते ? कथं च नित्योपलब्धिस्वरूपत्वम् अधिष्ठातुरिष्यते ? इत्यत आह — ~~~ यं नित्यबोधस्वरूपमात्मानम् आश्रित्य मनश्चक्षुरादीनि प्रवर्तन्ते, सोऽहमात्मेति सम्बन्धः । ननु कथं बोधस्य नित्यत्वम् ? बोधो हि नाम ज्ञानम् ; तच्च इन्द्रियार्थसंनिकर्षादिना जायते समुत्पद्यते ; उत्पन्नं च ज्ञानं स्वकार्येण संस्कारेण विरोधिना ज्ञानान्तरेण वा विनश्यति ; अतः उत्पत्तिनाशधर्मवत्त्वात् न नित्यं भवितुमर्हति ; नापि बोधस्वरूपत्वमात्मन उपपद्यते, नित्यत्वादात्मनः, अनित्यत्वाच्च बोधस्य ; न हि नित्यानित्ययोरेकस्वभावत्वम् , विरोधात् इति ॥ अत्रोच्यते — बोधो हि नाम चैतन्यमभिप्रेतम् ; न च ज्ञानं चैतन्यम् , जन्यज्ञानस्य ज्ञेयत्वेन घटादिवज्जडत्वात् । ज्ञेयं हि ज्ञानम् , घटज्ञानं मे जातं पटज्ञानं मे जातमिति साक्षादनुभूयमानत्वात् । अतः तस्य अनित्यत्वेन अनात्मस्वरूपत्वेऽपि, नित्यबोधस्वरूपत्वम् आत्मन उपपद्यते । ननु आत्मनः चेतनत्वे किं प्रमाणमिति चेत् , जगत्प्रकाश इति ब्रूमः । जगत् प्रकाशत इति सर्वजनसिद्धम् ; तत्र ज्ञानादीनां ज्ञेयत्वेन जडत्वात् , आत्मप्रकाशेनैव जगत् प्रकाशत इति निश्चितं भवति । आत्मा च स्वपरप्रकाशवान् सवितृप्रकाशवत् — यथा सविता स्वयं प्रकाशमानो जगदपि प्रकाशयति, तथा आत्मापीति । अस्तु तर्हि चिद्धर्मा पुरुषः, कथमयं चित्स्वभाव इति ; न, धर्मधर्मिभावस्य अनुपपत्तेः ॥ तथा हि — आत्मनश्चैतन्यं भिन्नम् , अभिन्नं वा, भिन्नाभिन्नं वा । तत्र न तावद्भिन्नम् ; भिन्नं चेत् , घटवदात्मधर्मत्वानुपपत्तेः । ननु घटः असम्बन्धात् आत्मधर्मो न भवति, चैतन्यं तु आत्मसम्बन्धीति युक्तमात्मधर्मत्वम् इत्यपि न सम्बन्धानुपपत्तेः । सम्बन्धो हि तावत् संयोगो वा समवायो वा स्यात् , सम्बन्धान्तरस्य अत्र असम्भवात् । न तावत्संयोगः, तस्य द्रव्यमात्रधर्मत्वात् , अद्रव्यत्वाच्चैतन्यस्य । नापि समवायः, अनवस्थापातात् । समवायो हि सम्बद्धः समवायिनौ सम्बध्नाति, असम्बद्धो वा ? न तावदसम्बद्धः, घटादिवदकिञ्चित्करत्वात् । सम्बद्धश्चेत् , संयोगादेरभावेन समवायस्यापि समवायान्तरमभ्युपगन्तव्यम् । एवं परम्परापेक्षायाम् अनवस्थापात इति यत्किञ्चिदेतत् । तस्माद्भिन्नत्वपक्षे धर्मधर्मिभावः सर्वथा नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति ; न हि शुक्लं शुक्लस्य धर्मो भवतीति । तस्मात् भिन्नाभिन्नत्वपक्ष एव अवशिष्यते । स च विरोधान्न युज्यते — न ह्येकमेवैकस्मात् भिन्नमभिन्नं च भवितुमर्हति, विरोधात् । अथोच्यते — प्रत्यक्षसिद्धत्वात् भेदाभेदौ अविरुद्धौ । तथा हि — गौरियमिति पिण्डाव्यतिरेकेण गोत्वं प्रतीयते ; तदेव पिण्डान्तरे प्रत्यभिज्ञायमानत्वात् भेदेनावगम्यते ; अतः प्रत्यक्षेणैव भेदाभेदयोः प्रतीयमानत्वात् अविरोध इति — नैतत्साधु मन्यामहे, प्रत्यक्षस्य अन्यथासिद्धत्वात् — भिन्नमपि हि वस्तु प्रत्यक्षेण अत्यन्तसंनिधानादिदोषात् अभिन्नवत्प्रतीयते — यथा दीपज्वाला भिन्नापि कुतश्चित्कारणादभिन्नवत्प्रतिभासन्ते, तथा अभिन्नमपि वस्तु भिन्नमिव प्रतिभासते — यथा एकस्माच्चन्द्राद्वितीयश्चन्द्र इति — अतः प्रत्यक्षस्य अन्यथासिद्धत्वात् न तेन प्रत्यक्षेण प्रमाणसिद्धस्य भेदाभेदविरोधस्य प्रतिक्षेपो युक्त इति । अथैवमुच्यते — चैतन्यस्य द्वे रूपे स्तः, आत्मस्वरूपता चैतन्यस्वरूपता चेति । तत्र आत्मस्वरूपतया आत्मनो न भिद्यते ; भिद्यते च चैतन्यस्वरूपतया । अतः उभयरूपाभ्यां भिन्नाभिन्नत्वमविरुद्धमिति — तदपि न, धर्मधर्मित्वाभावात् । तथा हि — येन रूपेण तदभिन्नं न तेन रूपेण धर्मत्वम् अभिन्नत्वादवोचाम । येन रूपेण भिन्नम् , तेनापि न धर्मः, भिन्नत्वाद्घटादिवदित्युक्तम् । यच्चोक्तम् उभयरूपाभ्यां भिन्नाभिन्नत्वमिति, तदपि विचारं न सहते । ते रूपे किं चैतन्याद्भिन्ने, अभिन्ने, भिन्नाभिन्ने वा । तत्र न तावद्भिन्ने, भिन्नत्वे घटादिवदकिञ्चित्करणत्वात् ; अभिन्नत्वे चैतन्यमात्रमेवेति न ताभ्यां भिन्नाभिन्नत्वम् । भिन्नाभिन्नत्वं च विरोधादेव न युक्तम् । तयोरपि रूपान्तराभ्यां भिन्नभिन्नत्वाभ्युपगमे अनवस्थापात इत्यलमतिविस्तरेण । तस्मान्नात्मा सर्वथा चिद्धर्मा ; किं तर्हि ? चित्स्वरूप एवेति । एतेन सदानन्दयोरपि आत्मस्वरूपत्वं व्याख्यातम् । नित्यश्च आत्मा, सदकारणवत्त्वात् परमाणुवत् ; सन् आत्मा, अहमस्मीति प्रतीतेः । अकारणवांश्च ; न हि अस्य कारणं वस्तु प्रत्यक्षादिभिरुपलभ्यते, नापि श्रूयते ; किं तु त्रैलोक्यैककारणता हि आत्मनः श्रूयते ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यादिश्रुतिभ्यः । न त्वात्मनोऽपि कारणान्तरम् । अतः सदकारणवत्त्वात् नित्य आत्मेति सिद्धम् । तस्मात् साधूक्तं नित्यबोधस्वरूपमिति । तत्रैव दृष्टान्तमाह — अग्न्युष्णवदिति । यथा उष्णत्वमग्नेर्न व्यतिरिच्यते । व्यतिरेके हि कदाचिदग्नेरन्यत्राप्युपलभ्येत — यथा पुरुषाद्दण्डादि ; न चैवमस्ति ; तस्मादग्निस्वरूपमेव अग्नेरुष्णत्वम् । एवमात्मनोऽपि चैतन्यं स्वरूपमेवेत्यर्थः । तथा च उक्तम् — ‘निरंशत्वाद्विभुत्वाच्च तथानश्वरभावतः । ब्रह्मव्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्’ इति । यच्चोक्तं मनश्चक्षुरादीनां प्रवृत्तौ किमर्थमधिष्ठाता इष्यते, स्वयमेव कस्मान्न प्रवर्तन्ते इति, तत्राह — अबोधात्मकानीति । हेतुगर्भमिदं विशेषणम् ; अतश्च अयमर्थः सेत्स्यति — अबोधात्मकत्वात् अचेतनत्वाच्च घटादिवच्चेतनमधिष्ठातारमाश्रित्यैव प्रवर्तन्त इति । तदचेतनत्वं चैषां तज्ज्ञेयत्वात् घटादिवदिति । श्रुतिरपि ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिना आत्मव्यतिरिक्तस्य चेतनत्वं प्रतिषेधति । अतो युक्तमुक्तं चेतनमात्मानमाश्रित्य प्रवर्तन्त इति । निष्कम्पं निस्तरङ्गं निःसंशयमित्यर्थः । तथा च श्रुतिः ‘भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ इति । एकम् अद्वितीयं देवतिर्यङ्मनुष्यादिशरीरेषु एकम् , न तु साङ्ख्यादिपरिकल्पितवत् नानाभूतमित्यर्थः ॥