Shloka

निमित्तं मनश्चक्षुरादिप्रवृत्तौनिरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥

nimittaṃ manaścakṣurādipravṛttaunirastākhilopādhirākāśakalpaḥ ; ravirlokaceṣṭānimittaṃ yathā yaḥsa nityopalabdhisvarūpo’hamātmā . 1 .

हस्तामलकीयभाष्यम्

यस्मिन्ज्ञाते भवेत्सर्वं विज्ञातं परमात्मनि । तं वन्दे नित्यविज्ञानमानन्दमजमव्ययम् ॥

यदज्ञानादभूद्द्वैतं ज्ञाते यस्मिन्निवर्तते । रज्जुसर्पवदत्यन्तं तं वन्दे पुरुषोत्तमम् ॥

यस्योपदेशदीधित्या चिदात्मा नः प्रकाशते । नमः सद्गुरवे तस्मै स्वाविद्याध्वान्तभानवे ॥

इह हि सर्वस्य जन्तोः सुखं मे भूयाद्दुःखं मे मा भूयात् इति स्वरसत एव सुखोपादित्सादुःखजिहासे भवतः । तत्र यः कश्चित् पुण्यातिशयशाली अवश्यंभाविदुःखाविनाभूतत्वादनित्यत्वाच्च विषयजं सुखं दुःखमेवेति ज्ञात्वा यत्नेन ससाधनात्संसारात्त्यक्तासक्तिरत्यन्तं विरज्यते । विरक्तश्च संसारहानौ यतते । संसारस्य च आत्मस्वरूपापरिज्ञानकृतत्वात् आत्मज्ञानान्निवृत्तिरिति तं प्रत्यात्मज्ञानमाचार्य उपदिशति — ~~~ ननु सर्वत्र ग्रन्थादौ शिष्टानामिष्टदेवतास्तुतिनमस्कारपूर्विका प्रवृत्तिरुपलब्धा ; अयं च विना स्तुतिनमस्कारौ प्रवर्तमानोऽशिष्टत्वात् अनादरणीयवचनः प्रसज्येतेति चेत् — न ; स्तुतिनमस्कारयोस्त्रैविध्यात् ; त्रिविधौ हि स्तुतिनमस्कारौ — कायिकौ वाचिकौ मानसिकौ चेति । तत्र कायिकवाचिकयोरभावेऽपि परमशिष्टत्वादाचार्यस्य ग्रन्थस्य अविघ्नेन परिसमाप्तेश्च मानसिकौ स्तुतिनमस्कारावकरोदयमाचार्य इत्यवगम्यते ; यत्किञ्चिदेतत् । प्रकृतमनुसरामः — मनश्च चक्षुश्च मनश्चक्षुषी, ते आदिर्येषां तानि मनश्चक्षुरादीनि ; आदिशब्दः प्रत्येकमभिसम्बध्यते ; ततश्च अयमर्थो भवति — मनआदीनां मनोऽहङ्कारबुद्धिचित्तानां चतुर्णामन्तःकरणानाम् , तथा चक्षुरादीनां चक्षुस्त्वक्श्रोत्रजिह्वाघ्राणानां पञ्चबुद्धीन्द्रियाणाम् , एवं वाक्पाणिपादपायूपस्थानां पञ्चकर्मेन्द्रियाणाम् , प्रवृत्तौ स्वस्वव्यापारे, निमित्तं हेतुः यः, सोऽहमात्मेति सम्बन्धः । स कीदृश इत्याकाङ्क्षायामाह — नित्योपलब्धिरिति । नित्या च असावुपलब्धिश्चेति नित्योपलब्धिः, सा स्वरूपं यस्य स तथोक्तः । रविः आदित्यः यथा येन प्रकारेण प्रकाशकत्वेन लोकानां चेष्टायां स्पन्दने निमित्तं हेतुः, तथैव अधिष्ठातृत्वेन यो निमित्तं सोऽहमात्मेत्यर्थः — इति इयं दृष्टिः आत्मज्ञानोपायत्वेन दर्शिता । परमार्थतस्तु निरस्ताः निराकृताः अखिलाः निरवशेषाः उपाधयो बुद्ध्यादिलक्षणाः यस्य स तथोक्तः । निरस्ताखिलोपाधित्वादेव अयमाकाशकल्पः आकाशवद्विशुद्ध इत्यर्थः ॥

Preferences

Font Size


View
(Where Available)


Sanskrit Content